|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.94. अध्यायः 094
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
वैशम्पायनेन जनमेजयंप्रति पशुहिंसां विनैव ध्यानदानादिभिरेव यज्ञफलसंसिद्धौ दृष्टान्ततयाऽगस्त्ययज्ञप्रकारकथनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
जनमेजय उवाच।
धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत्।
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम्॥ 14-94-1(95223)
तस्योञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत्।
कथितं तु मम ब्रह्मंस्तथ्यमेतदसंशयम्॥ 14-94-2(95224)
कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत्।
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ॥ 14-94-3(95225)
वैशम्पायन उवाच। 14-94-4x(7932)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम॥ 14-94-4(95226)
पुराऽगस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम्।
प्रविवेश महाराज सर्वभूतहिते रतः॥ 14-94-5(95227)
तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः।
मूलाहाराः फलाहाराश्चाश्मकुट्टा मरीचिपाः॥ 14-94-6(95228)
परिपृष्टिका वैघसिकाः प्रसङ्ख्यानास्तथैव च।
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः॥ 14-94-7(95229)
सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः।
दमे स्थिताश्च सर्वे ते हिंसादंभविवर्जिताः॥ 14-94-8(95230)
वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यबाधिताः।
उपातिष्ठन्त तं यज्ञं यजन्तस्ते महर्षयः॥ 14-94-9(95231)
यथाशक्त्या भगवता तदन्नं समुपार्जितम्।
तस्मिन्सत्रे तु यद्वृत्तं यद्योग्यं च तदाऽभवत्॥ 14-94-10(95232)
तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः।
एवंविधे त्वगस्त्यस्य वर्तमाने तथाऽध्वरे।
न ववर्ष सहस्राक्षस्तदा भरतसत्तम॥ 14-94-11(95233)
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः।
कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम्॥ 14-94-12(95234)
अगस्त्यो यजमानोसौ ददात्यन्नं विमत्सरः।
न च वर्षति पर्जन्यः कथमन्नं भविष्यति॥ 14-94-13(95235)
सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम्।
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश॥ 14-94-14(95236)
एतद्भवन्तः संचिन्त्य महर्षेरस्य धीमतः।
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम्॥ 14-94-15(95237)
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान्।
प्रोवाच वाक्यं स तदा प्रसाद्य शिरसा मुनीन्॥ 14-94-16(95238)
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः।
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः॥ 14-94-17(95239)
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः।
स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः॥ 14-94-18(95240)
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः।
व्यायामेनाहरिष्यामि यज्ञानेतान्यतव्रतः॥ 14-94-19(95241)
बीजयज्ञो मयाऽयं वै बहुवर्षसमाचितः।
बीजैर्हितं करिष्यामि नात्र विघ्नो भविष्यति॥ 14-94-20(95242)
नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन।
वर्षिष्यतीह वा देवो नवा वर्षं भविष्यति॥ 14-94-21(95243)
अथवाऽभ्यर्थनामिन्द्रो न करिष्यति कामतः।
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः॥ 14-94-22(95244)
यो यदाहारजातश्च स तथैव भविष्यति।
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि॥ 14-94-23(95245)
अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम्।
त्रिषु लोकेषु यच्चास्ति तदिहागम्यतां स्वयम्॥ 14-94-24(95246)
दिव्याश्चाप्सरसां सङ्घा गन्धर्वाश्च सकिन्नराः।
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु मे मखम्॥ 14-94-25(95247)
उत्तरेभ्यः कुरुभ्यश्च यत्किंचिद्वसु विद्यते।
सर्वं तदिह यज्ञेषु स्वयमेवोपतिष्ठतु॥ 14-94-26(95248)
स्वर्गः स्वर्गसदश्चैवक धर्मश्च स्वयमेव तु।
इत्युक्ते सर्वमेवैतदभवत्तपसा मुनेः।
तस्य दीप्ताग्निमहसस्त्वगस्त्यस्यातितेजसः॥ 14-94-27(95249)
ततस्ते मुनयो हृष्टा ददृशुस्तपसो बलम्।
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत्॥ 14-94-28(95250)
प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोवनम्।
तैरेव यज्ञैस्तुष्टाः स्य न्यायेनेच्छामहे वयम्॥ 14-94-29(95251)
यज्ञं दीक्षां तथा होमान्यच्चान्यन्मृगयामहे।
`तयोस्संधर्षितैर्यज्ञैर्नान्यतो मृगयामहे॥' 14-94-30(95252)
न्यायेनोपार्जिताहाराः स्वकर्माभिरता वयम्।
वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे॥ 14-94-31(95253)
न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम्।
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम्॥ 14-94-32(95254)
भवतः सम्यगिष्टा तु बुद्धिर्हिसाविवर्जिता।
एतामहिंसा यज्ञेषु ब्रूयास्त्वं सततं प्रभो॥ 14-94-33(95255)
प्रीतास्ततो भविष्यामो वयं तु द्विजसत्तम।
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे॥ 14-94-34(95256)
तथा कथयतां तेषां देवराजः पुरंदरः।
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम्॥ 14-94-35(95257)
आसमाप्तेश्च यज्ञस्य तस्यामितपराक्रमः।
निकामवर्षी पर्जन्यो बभूव जनमेजय॥ 14-94-36(95258)
प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः।
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम्॥ 14-94-37(95259)
ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन्।
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि॥ ॥ 14-94-38(95260)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वि चतुर्नवतितमोऽध्यायः॥ 94 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-94-6 मरीचिपाश्चन्द्रमरीचिपानमातृप्ताः॥ 7-94-7 परिपृष्टं चेदेव गृह्णन्ति नान्यथा मे परिपृष्टिकाः। प्रसंख्यानास्तत्कालमात्रसंग्रहाः॥ 7-94-17 चिन्तायज्ञं मानसं यज्ञम्। संकल्पमात्रेणैव देवानृषीश्च तर्पयिष्यामीत्यर्थ॥ 7-94-18 स्पर्शयज्ञं उपाहृतद्रव्यस्य व्ययमकृत्वा तत्स्पर्शेनैव तांस्तर्पयिष्यामि। एवं दृष्टियज्ञोपि ज्ञेयः॥ 7-94-19 व्यायामेन शरीरक्लेशेन। ध्येयात्मना हरिष्यामि हति झ.पाठः॥ 7-94-29 न त्विच्छामस्तपोव्ययमिति झ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|